Enjoy Reading Blogs

हरिद्रा गणेश कवचम

Posted on 2021-09-27, by Rahul

श्री हरिद्रा गणेश कवचम

HaridraGanesh Kavacham is in Sanskrit. It is from Viswasartantre. It is told to Goddess Paravati by God Shankar. It destroys all sins, gives health, wealth and protects the reciter from enemies.

हरिद्रागणेश कवचं
ईश्र्वर उवाच

शृणु वक्ष्यामि कवचं सर्व सिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्व सङ्कटात् ॥ १ ॥
अज्ञात्वा कवचं देवि गणेशस्य मनुंजपेत् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ २ ॥
ॐ आमोदश्र्च शिरः पातु प्रमोदश्र्च शिखोपरि ।
संमदो भ्रुयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३ ॥
गणक्रीडो नेत्रयुगं नासायांगणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धयो ॥ ४ ॥
जिव्हायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्र्च वक्षसि ॥ ५ ॥
गणानां नायकः पातु बाहुयुग्मं सदत्मम ।

विघ्नहर्ता च ह्युदरे विघ्नकर्ता च लिङ्ग के ॥ ६ ॥
गजवक्र कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७ ॥
व्यालयज्ञोपवीतीमां पातु पाद्युगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८ ॥
हरिद्रः सर्वदा पातु सर्वांग गणनायकः ।

य इदं प्रपठे नित्यं गणेशस्य महेश्र्वरि ॥ ९ ॥ 
कवचं सर्व सिद्धाख्यं सर्व विघ्न विनाशनम् ।
सर्व सिद्धि करं साक्षात् सर्व पाप विमोचनम् ॥ १० ॥
सर्व सम्पत्प्रदं साक्षात् सर्व शत्रु क्षयंकरम् ॥ ११ ॥
ग्रहपीडा ज्वरारोगा चान्ये गुह्य कायदतः ।

पठनाद्धारणादेव नाशमायान्ति तत्क्षणात् ॥ १२ ॥
धनधान्यं करं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३ ॥
हारिद्रस्य महेशानि कवचस्य च भूतले ।
किमत्यै रसदालयैः यत्रायुः व्ययतामियात् ॥ १४ ॥  

॥ इति विश्र्वसारतन्त्रे हरिद्रा गणेश कवचं संपूर्णम् ॥  

कवच Iकोई भी हो , हमेशा ही शुभ फल दायी होते है ! केवल इतना ध्यान में रखे कि आप को संस्कृत ठीक से pronounce करते आनि चाहिए ! तो बोली गणपति बप्पा मोर्या

Conclusion

गणेश जी सब की सुरक्षा करे ! और मंत्र आएँगे जो की दुर्लभ है

Next Up

और बहुत सारे मंत्र जो दुर्लभ है